lirikku.id
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #
.

Rudra Kavacham - Pandit ganeshwar Mishra Lyrics


By: Admin | Artist: P pandit ganeshwar mishra | Published: 2024-21-09T11:36:18:00+07:00
Rudra Kavacham - Pandit ganeshwar Mishra LyricsLirikku.ID - Rudra Kavacham - Pandit ganeshwar Mishra Lyrics: Halo Lirikku.ID, Dalam konten ini, kami menyediakan chord gitar untuk lagu "Rudra Kavacham - Pandit ganeshwar Mishra Lyrics" yang dinyanyikan oleh Toton P pandit ganeshwar mishra. Dengan chord yang disajikan, pemula atau penggemar musik dapat dengan mudah memainkan lagu ini dengan gitar mereka sendiri. Kami menyajikan chord dengan akurasi tinggi sehingga pemain dapat mengikuti alunan musiknya dengan baik. Juga, kami akan memberikan informasi tambahan mengenai lirik lagu dan mungkin beberapa tips untuk menyempurnakan permainan gitar. Konten ini cocok untuk penggemar musik yang ingin belajar lagu baru atau bagi mereka yang ingin menikmati kesenangan bermain musik dengan gitar. Silahkan disimak Rudra Kavacham - Pandit ganeshwar Mishra Lyrics Berikut Dibawah ini untuk Selanjutnya.

ॐ अथ श्री रुद्र कवचं श्री गुरुभ्यो नमः हरि ॐ

अस्य श्री रुद्र कवच स्तोत्र महामन्त्रस्य दूर्वासऋषिः अनुष्ठुप् छन्दः त्र्यम्बक रुद्रो देवता ह्रां बीजं श्रीं शक्तिः ह्रीं कीलकं मम मनसोऽभीष्टसिद्ध्यर्थे जपे विनियोगः ह्रामित्यादि षड्बीजैः षडङ्गन्यासः ॥

अथ ध्यानम् ।

शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं ।
शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तं ।
नागं पाशं च घण्टां प्रलय हुतवहं साङ्कुशं वामभागे ।
नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥

दूर्वास उवाच ।

प्रणम्य शिरसा देवं स्वयम्भुं परमेश्वरं ।
एकं सर्वगतं देवं सर्वदेवमयं विभुम् ॥ १ ॥

रुद्र वर्म प्रवक्ष्यामि अङ्ग प्राणस्य रक्षये ।
अहोरात्रमयं देवं रक्षार्थं निर्मितं पुरा ॥ २ ॥

रुद्रो मे जाग्रतः पातु पातु पार्श्वौ हरस्तथा ।
शिरो मे ईश्वरः पातु ललाटं नीललोहितः ॥ ३ ॥

नेत्रयोस्त्र्यम्बकः पातु मुखं पातु महेश्वरः ।
कर्णयोः पातु मे शम्भुः नासिकायां सदाशिवः ॥ ४ ॥

वागीशः पातु मे जिह्वां ओष्ठौ पात्वम्बिकापतिः ।
श्रीकण्ठः पातु मे ग्रीवां बाहून्*श्चैव पिनाकधृत् ॥ ५ ॥

हृदयं मे महादेवः ईश्वरोव्यात् स्तनान्तरं ।
नाभिं कटिं च वक्षश्च पातु सर्वं उमापतिः ॥ ६ ॥

बाहुमध्यान्तरं चैव सूक्ष्म रूपस्सदाशिवः ।
स्वरं रक्षतु सर्वेशो गात्राणि च यथा क्रमम् ॥ ७ ॥

वज्रशक्तिधरं चैव पाशाङ्कुशधरं तथा ।
गण्डशूलधरं नित्यं रक्षतु त्रिदशेश्वरः ॥ ८ ॥

प्रस्तानेषु पदे चैव वृक्षमूले नदीतटे ।
सन्ध्यायां राजभवने विरूपाक्षस्तु पातु माम् ॥ ९ ॥

शीतोष्णा दथकालेषु तुहिनद्रुमकण्टके ।
निर्मनुष्ये समे मार्गे पाहि मां वृषभध्वज ॥ १० ॥

इत्येतद्द्रुद्रकवचं पवित्रं पापनाशनं ।
महादेव प्रसादेन दूर्वास मुनिकल्पितम् ॥ ११ ॥

ममाख्यातं समासेन न भयं तेनविद्यते ।
प्राप्नोति परमाऽरोग्यं पुण्यमायुष्यवर्धनम् ॥ १२ ॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनं ।
कन्यार्थी लभते कन्यां न भयं विन्दते क्वचित् ॥ १३ ॥

अपुत्रो लभते पुत्रं मोक्षार्थी मोक्षमाप्नुयात् ।
त्राहि त्राहि महादेव त्राहि त्राहि त्रयीमय ॥ १४ ॥

त्राहिमां पार्वतीनाथ त्राहिमां त्रिपुरन्तक ।
पाशं खट्वाङ्ग दिव्यास्त्रं त्रिशूलं रुद्रमेव च ॥ १५ ॥

नमस्करोमि देवेश त्राहि मां जगदीश्वर ।
शत्रुमध्ये सभामध्ये ग्राममध्ये गृहान्तरे ॥ १६ ॥

गमनागमने चैव त्राहि मां भक्तवत्सल ।
त्वं चित्वमादितश्चैव त्वं बुद्धिस्त्वं परायणम् ॥ १७ ॥

कर्मणामनसा चैव त्वं बुद्धिश्च यथा सदा ।
सर्व ज्वर भयं छिन्दि सर्व शत्रून्निवक्त्याय ॥ १८ ॥

सर्व व्याधिनिवारणं रुद्रलोकं स गच्छति रुद्रलोकं स गच्छति
रुद्रलोकं सगच्छत्योन्नमः ॥

इति श्री

स्कन्दपुराणे दूर्वास प्रोक्तं रुद्र कवचं सम्पूर्णम् ॥


Saksikan Video Rudra Kavacham - Pandit ganeshwar Mishra Lyrics Berikut ini..


Random Song Lyrics :

LIRIK YANG LAGI HITS MINGGU INI

Loading...

LIRIK YANG LAGI HITS BULAN INI

Loading...